# दुर्गास्तुति: Durgastuti

- Link: https://theastrologyonline.com/%e0%a4%a6%e0%a5%81%e0%a4%b0%e0%a5%8d%e0%a4%97%e0%a4%be%e0%a4%b8%e0%a5%8d%e0%a4%a4%e0%a5%81%e0%a4%a4%e0%a4%bf/
- Published: 2016-03-06T04:40:28+05:30
- Author: Astrologer Sidharth

**श्रीमहाभागवत पुराण के अन्तर्गत वेदों द्वारा की गई दुर्गा स्तुति**

**श्रुतय ऊचु:**

दुर्गे विश्वमपि प्रसीद परमे सृष्ट्यादिकार्यत्रये
 ब्रह्माद्या: पुरुषास्त्रयो निजगुणैस्त्वत्स्वेच्छया
कल्पिता: । नो ते कोsपि च कल्पकोsत्र भुवने विद्येत मातर्यत: क: शक्त: परिवर्णितुं 
तव गुणाँल्लोके भवेद्दुर्गमान ।।1।।

त्वामाराध्य हरिर्निहत्य समरे दैत्यान रणे दुर्जयान
 त्रैलोक्यं परिपाति शम्भुरपि ते
धृत्वा पदं वक्षसि । त्रैलोक्यक्षयकारकं समपिबद्यत्कालकूटं विषं किं ते वा चरितं वयं
त्रिजगतां ब्रूम: परित्र्यम्बिके ।।2।।

या पुंस: परमस्य देहिन इह स्वीयैर्गुणैर्मायया
 देहाख्यापि चिदात्मिकापि च परिस्पन्दादिशक्ति:
परा । त्वन्मायापरिमोहितास्तनुभृतो यामेव देहस्थिता भेदज्ञानवशाद्वदन्ति पुरुषं तस्यै
नमस्तेsम्बिके ।।3।।

स्त्रीपुंस्त्वप्रमुखैरुपाधिनिचयैर्हीनं परं ब्रह्म यत्
 त्वत्तो या प्रथमं बभूव जगतां
सृष्टौ सिसृक्षा स्वयम् । सा शक्ति: परमाsपि यच्च समभून्मूर्तिद्वयं शक्तित- स्त्वन्मायामयमेव
तेन हि परं ब्रह्मापि शक्त्यात्मकम् ।।4।।

तोयोत्थं करकादिकं जलमयं दृष्टवा यथा निश्चय-
 स्तोयत्वेन भवेद्ग्रहोsप्यभिमतां तथ्यं
तथैव धुवम् । ब्रह्मोत्थं सकलं विलोक्य मनसा शक्त्यात्मकं ब्रह्म त- च्छक्तित्वेन विनिश्चित:
पुरुषधी: पारं परा ब्रह्मणि ।।5।।

षट्चक्रेषु लसन्ति ये तनुमतां ब्रह्मादय: षट्शिवा-
 स्ते प्रेता भवदाश्रयाच्च परमेशत्वं
समायान्ति हि । तस्मादीश्वरता शिवे नहि शिवे त्वय्येव विश्वाम्बिके त्वं देवि त्रिदशैकवन्दितपदे
दुर्गे प्रसीदस्व न: ।।6।।

।।इति श्रीमहाभागवते महापुराणे वेदै: कृता दुर्गास्तुति: सम्पूर्णा ।।
