# ललितापंचकम् Lalita Panchkam

- Link: https://theastrologyonline.com/%e0%a4%b2%e0%a4%b2%e0%a4%bf%e0%a4%a4%e0%a4%be%e0%a4%aa%e0%a4%82%e0%a4%9a%e0%a4%95%e0%a4%ae%e0%a5%8d/
- Published: 2016-03-06T04:13:02+05:30
- Author: Astrologer Sidharth

**ललितापंचकम्**

प्रात: स्मरामि ललितावदनारविन्दं
 विम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं
मणिकुण्डलाढ़्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ।।1।।

प्रातर्भजामि ललिताभुजकल्पवल्लीं
 रक्तांगुलीयलसदंगुलिपल्लवाढ़्याम् । माणिक्यहेमवलयांगदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ।।2।।

प्रातर्नमामि ललिताचरणारविन्दं
 भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं
पद्मांकुशध्वजसुदर्शनलांछनाढ़्यम् ।।3।।

प्रात: स्तुवे परशिवां ललितां भवानीं
 त्रय्यन्तवेद्यविभवां करुणानवद्याम् विश्वस्य
सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरीं निगमवाड़्मनसातिदूराम् ।।4।।

प्रातर्वदामि ललिते तव पुण्यनाम
 कामेश्वरीति कमलेति महेश्वरीति । श्रीशाम्भवीति जगतां
जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ।।5।।

य: श्लोकपंचकमिदं ललिताम्बिकाया:
 सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता
झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।6।।

।।इति श्रीमच्छंकराचार्यकृतं ललितापंचकं सम्पूर्णम्।।
