# श्रीवासुदेवानन्दसरस्वतीविरचितं गणपतिस्तोत्रम

- Link: https://theastrologyonline.com/%e0%a4%b6%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%b5%e0%a4%be%e0%a4%b8%e0%a5%81%e0%a4%a6%e0%a5%87%e0%a4%b5%e0%a4%be%e0%a4%a8%e0%a4%a8%e0%a5%8d%e0%a4%a6%e0%a4%b8%e0%a4%b0%e0%a4%b8%e0%a5%8d%e0%a4%b5%e0%a4%a4/
- Published: 2016-03-06T03:49:40+05:30
- Author: Astrologer Sidharth

## श्रीवासुदेवानन्दसरस्वतीविरचितं गणपतिस्तोत्रम

निर्विघ्नार्थं हरीशाद्या देवा अपि भजन्ति यम ।
 मर्त्यै: स वक्रतुण्डोsर्च्य इति गाणेशसम्मतम।।
1।।

जगत्सृष्ट्यादिहेतु: सा वरा श्रुत्युक्तदेवता ।
 गणानां त्वेति मन्त्रेण स्तुतो गृत्समदर्षिणा।।
2।।

इत्युक्तं तत्पुराणेsतो गणेशो ब्रह्मणस्पति: ।
 महाकविर्ज्येष्ठराज: श्रूयते मन्त्रकृच्च
स: ।।3।।

मन्त्रं वदत्युक्थमेष प्रनूनं ब्रह्मणस्पति: ।
 यस्मिन्निन्द्रादय: सर्वे देवा ओकांसि
चक्रिरे ।।4।।

स प्रभु: सर्वत: पाता यो रेवान्यो अमीवहा ।
 अतोsर्च्योsसौ यश्चतुरो वसुवित्पुष्टिवर्धन:।।
5।।

वक्रतुण्डोsपि सुमुख: साधो गन्तापि चोर्ध्वग: ।
 येsमुं नार्चन्ति ते विघ्नै: पराभूता
भवन्ति हि ।।6।।

ये दूर्वांकुरलाजाद्यै: पूजयन्ति शिवात्मजम ।
 ऎहिकामुष्मिकान भोगान भुक्त्वा मुक्तिं
व्रजन्ति ते ।।7।।

।।इति श्रीवासुदेवानन्दसरस्वतीविरचितं गणपतिस्तोत्रम सम्पूर्णम।।
